________________
४०४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति :महोत्सवोऽयं महता व्ययेन,
महामहाडम्बरहर्षपूर्वम् । व्याधाद् धनी राधनपूर्निवासी,
श्री लक्ष्मीचन्द्राभिध इभ्यवर्यः ॥१८॥ सुमङ्गलाश्रीशुभनामिकायाः,
साध्व्याः स संसारिपिता वरेण्यः । श्रीप्रेमचन्द्रात्मज उच्चभावः,
सुश्रावकाग्रेसर ईड्यकीर्तिः ॥१९॥ (युग्मम्) आचार्यवर्या विजयेतिपूर्वाः,
श्रीनीतिसूरीश्वरसाधुसूर्याः । अहम्मदावादपुरात् स्वकीयं,
व्यधुर्विहारं सह वर्ण्यशिष्यैः ॥२०॥ गीतिः - श्रीमत्फाल्गुनमासे, कृष्णे पक्षे तिथौ च पञ्चम्याम् । शुभवारे सुमुहूर्ते, विहृत्य तस्मात् सूरिः सह शिष्यैः ॥२१॥ शाखानगरहरिपुरे, श्रेष्ठश्रीभगुभाईतनुजस्य । जमनाभाईतिनाम्नः, श्रेष्ठिश्रेष्ठस्य तुङ्गप्रासादम् ॥२२॥ तथा च शाहीबागे, ठाकरशीनामश्रेष्ठितनुजस्य । श्रीमगनलालनाम्नो, धनिनो रम्यं च शर्मदं हर्म्यम् ॥२३॥ निजचरणाब्जरजोभिः, पवित्रयित्वा मुनीश्वरैः सार्धम् । वरवरघोटकसहिताः, साबरमत्याख्यशाखापुरमगमत् ॥२४॥
(चतुर्भिः कलापकम् ।)