SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ स्थानकवासी मुनि पञ्चकानां प्रतिबोध्य संवेगीदीक्षा प्रदानम् । ४०३ श्रीमद्-हठीभाइसुनामकस्य, सद्वृक्षसंशोभितवाटिकायाम् ॥११॥ श्रीसूरिसूर्या जिनधर्मधुर्या, महोत्सवैः सार्धमनेकसंख्यैः । संवेगिनाम्नी मुनिमान्यदीक्षां, श्रीसंघसाक्ष्यं व्यतरंस्तदानीम् ॥१२॥ (पञ्चभिः कुलकम्।) आर्या - सोमविजय इतिनाम्ना, प्रथमं चाऽन्यं प्रमोदविजय इति । दीपविजय इति तृतीयं, अशोकविजय इति चतुर्थं च ॥१३॥ उमेदविजयेतिनाम्ना, पञ्चमकं व्यभूषयंश्च सूरिवराः । संवेगिदीक्षापूर्ती, अदुर्मुनिभ्यो हितकरमुपदेशम् ॥१४॥ (युग्मम्) गीतिः - तत्रैव राजनगरे, फाल्गुनशुक्ले प्रतिपदि शुभवारे । मुनिपञ्चकाय बृहती, दीक्षामददुर्लोहकृतां वासे ॥१५॥ तस्मिन् समये तत्र, सुमङ्गलाश्रीतिनामभृत्साध्व्यै । महिमाश्रीशिष्यायै, बृहतीं दीक्षामदुस्तथाचार्याः ॥१६॥ मधुपुरीपुरीवासि-श्रीमञ्जयन्तीलालनामभृते ।। दीक्षां दत्त्वा विधिना, जयानन्दविजयेति तन्नाम कृतम् ॥१७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy