________________
४०२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - अथाऽन्यदा स्थानकवासिजैना
नां संप्रदायस्थमुनीश्वरस्य । श्रीमज्जवाहीरपदादिलाला
ऽभिधानघर्तुः समुदायकस्थम् ॥६॥ उद्बोध्य बौधैर्मुनिपञ्चकं ते,
आचार्यवर्या हितकर्तृधुर्याः । श्रीवीतरागप्रतिमासुरागा
___ऽन्वितं ह्यकुर्वन् सुकृतैकसूर्याः ॥७॥ (युग्मम्) षडङ्क-नन्दैकमिते सुवर्षे, (१९९६)
सन्माघमासस्य सिते दले वै । तिथौ दशम्यां वरवासरेऽथ,
सद्योगलग्नादिकसन्मुहूर्ते ॥८॥ मुनीश्वरं श्रीसरदारमलं,
स्वकर्मशत्रुस्खलनेऽतिमल्लम् । प्रवर्तकोपाधिधरं तथाऽन्यं,
पन्नादिलालं सुचरित्रमालम् ॥९॥ श्रीदेविलालं च गुणैः सुशीलं, .
अम्बादिलालं तु तपोविशालम् । तथा मुनिमर्जुनलालनाम्ना,
वित्तं जिनेशप्रतिमैकचित्तम् ॥१०॥ विचिन्त्य चैतद् मुनिपञ्चकं वै,
श्रीमूर्तिपूजामतरक्तचित्तम् ।