________________
उत्तरार्द्धम्
श्रीविक्रमार्कनृपतेः समयादतीते,
बाण-ग्रह-ग्रह- धराङ्कमिते सुवर्षे (१९९५)। सूरीश्वरा विजयनीतिशुभाभिधानाः,
वसन्ततिलकावृत्तम्
उपजाति:
-
सुवेष्टिता निजसुविस्तृतशिष्यवर्गैः ॥ १ ॥
श्रीमत्सुराजनगरे नगरातिरम्ये,
उच्चैस्तमप्रभुजिनेश्वरवासहर्म्ये । श्रीलोहकारवसतौ जिनभक्तिभाजि,
वर्षर्तुवासमतिगौरवतो कार्षुः ॥२॥ ( युग्मम् )
अङ्गा - ऽङ्क - नन्दैकमिते तथैव, (१९९६) संवत्सरेऽसौ वरविक्रमीये !
द्रुतविलम्बितम् -
मासोत्तमे कार्तिकनाममासे,
शुक्लाख्यपक्षे शुभपूर्णिमायाम् ॥३॥ श्रीयुक्तशान्तिप्रदशान्तिनाथ
वीथ्यां समृद्धेश्वरधामधानि ।
वर्षर्तुपूर्तिसमयस्य पश्चात्,
स्थानान्तरावासविधित्सयाऽरम् ॥४॥
वखतचन्द्रशुभाभिधधारिणः,
प्रचुरवित्तपतेस्तनुजन्मनः ।
मनसुखादिमरामरमापते-
गृहमगाद् वरसूरिपतिर्मुदा ॥५॥ ( त्रिभिर्विशेकम् )