________________
४००
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - पट्टावली वरतरा मुनिवर्णनाढ्या,
पन्यास-भावविजयस्य गणीश्वरस्य । चारित्रयुक्-श्रमणसंघविराजिताऽसौ,
याऽऽसीच्च पूर्वकवि-सत्कृतितोऽवशिष्टा ॥१७॥ पञ्च-ग्रह-ग्रह-सितांशुमिताऽङ्कवर्षे (१९९५),
शत्रुञ्जयाद्रि-शुभतीर्थवरेण पूते । सत्पादलिप्तनगरे परिपूर्णितेयं,
सद्धर्मसेवनविदा शिवशङ्करेण ॥९८॥ (युग्मम्)
।
पूज्यपाद-पन्न्यास-श्रीमद् भावविजयगणिवर्यस्य पट्टपरम्परा समाप्ता । ०
रैवताचलादितीर्थोद्धारक-शासनप्रभावक
आचार्य श्री विजयनीतिसूरीश्वरचरित्रं, ___ चातुर्मास्याख्यानं, पट्टपरम्परा च
समाप्ता ॥