________________
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम्
आजन्मसंपालित-ब्र( ? )ह्मचर्य
___ प्रस्थान-पञ्चादिसुकारिणां च ॥११॥ आचार्यचूडामणि-तर्क-वह्नि
__गुणालयानां विबुधोत्तमानाम् । प्रख्यातिमच्छ्रीविजयादिनीतिसूरीश्वराणां चरितं पवित्रम् ॥१२॥
(त्रिभिर्विशेषकम्) सीमन्तिनी सद्गुणिना सुभा,
· कुलं गुणाढ्येन सुनन्दनेन । मित्रेण घस्रः शशिना च रात्रिः,
शीलेन नारी वरविद्यया ना ॥१३॥ यथा तथा शासनमार्हतं हि,
शोशुभ्यतेऽनेन महत्तमेन । संसारकान्तार-जरादिदावा
ऽनलाम्बुवाहेन चरित्रनेत्रा ॥९४॥ (युग्मम्) एतर्हि काव्ये चरिताऽधिनेतु
रवर्णयज्जीवन-सच्चरित्रम् । चन्द्रा-ऽङ्क-नन्द-क्षितिसम्मिताऽब्द (१९९१)
पर्यन्तभूतं सकलं सुपौः ॥१५॥ पक्षा-ऽङ्क-रन्ध्रे-न्दुमिते सुवर्षे (१९९२),
माघे च कृष्णे नवमी-शनौ हि । सत्पादलिप्ते नगरे किलैतत्,
समापयच्छीव्रजनाथशर्मा ॥१६॥ (युग्मम् )