________________
३९८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम्
उपजातिः -
चरित्रनेतुर्गुरुवर्यकश्री-- - - -
पन्यास-भावाऽऽख्य-महामहिम्नाम् । शिष्योपशिष्यादिकवर्णनं हि,
यथाश्रुतं धीरधियामकारि ॥८६॥ विशुद्ध-चारित्रमवन्त एते,
तदीयकाः कर्मठ-साधुवर्गाः । सत्कीर्तिमन्तो जगतीं पुनन्तः,
सर्वत्र मह्यामुपदेशयन्ति ॥८७॥ अमत्सरा विज्ञजना गुणज्ञा,
महीयसां सच्चरितं पवित्रम् । आद्यन्तमेतत् परिपठ्य नून
मादर्शतां स्वात्मनि संनयन्तु ॥४८॥ महीयसामप्यवनौ भवन्ति,
छद्मस्थितानां बहवश्च दोषाः । पश्यन्ति विज्ञा न हि तांस्तदीयान्,
गुणांश्च गृह्णन्ति सहर्षमेषाम् ॥८९॥ जगज्जनानन्दकृतां समस्त
जैनागमज्ञानवतां महत्ताम् । उपेयुषामार्हत-शासनेऽस्मि
नादर्शपुंसां करुणामयानाम् ॥१०॥ सच्छासनं भासयतामजस्रं,
प्राचीन-तीर्थोद्धतिकारकाणाम् ।