________________
३९२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीतिः - पन्यास-तिलकविजया- -
ऽन्तेवासिहीर-भानु-हेमविजयाः । तेष्वस्ति हीरविजयो,
देशान्तरे जनतोपदेशकरः ॥१८॥ भानुविजयमुनिरनघः,
कुसुमेषुरिवाऽधिक-तानवशोभः । वाग्मी सदसि च जिष्णु
विवदिषुमखिलं गुरुपद-बहुभक्तः ॥५९॥ उपगीतिः -
हेमविजयमुनिरस्ति,
__ प्रकृतिमतिसरलां बिभ्राणः । संयमपालनदक्षो,
निरघ-शीलसुशोभित-देहः ॥१०॥ वसन्ततिलाक - सद्भानु-भानुसदृशैः स्वतपःप्रतापै
भव्यौघबोध-सवितुः कुतमोऽपहर्तुः । सज्ज्ञान-दर्शन-चरित्रयुतोपकर्तुः,
श्रीभानुपूर्वविजयस्य मुनीश्वरस्य ॥६१॥ उपजातिः - सुबोधजुष्टः समता-सुपुष्टो,
गुरूपदेशाऽमृत-पूर्णतुष्टः । सुबोधपूर्वं विजयान्तनाम, ___ धर्ताऽस्ति शिष्यस्तप-एकधाम ॥६२॥ (युग्मम् )