________________
३८६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् इन्द्रवज्रा - श्रीवल्लभाख्यो मुनिरस्ति तर्क
वादे पटीयान् गुणवान् सुमेधाः । सौशील्यधारी मलयो मुनिस्तु,
सद्बुद्धिरभ्यस्यति शास्त्रमेषः ॥३०॥ मालिनी - कनकविजयनामा ज्ञान-चारित्रधाम,
सुकृतिततिसुरामो मोक्षसंप्राप्तुकामः । गुरुपदकजभक्तो जैनसिद्धान्तरक्तः,
कठिनतपसि सक्तो विद्यते दर्शनाक्तः ॥३१॥ आर्या - कञ्चनविजयाऽभिधानः,
सम्यग्ज्ञानादिसद्गुणाधानः । सद्गुरुशासनरागी,
जयतितरामिह सूरिसच्छिष्यः ॥३२॥ वसन्ततिलका - सच्छीलभूषणवृतो मुनिभूषणोऽन्यः,
श्रीभूषणादिविजयो वरसूरिशिष्यः । जैनागमाऽध्ययनतत्पर-सद्गुणाढ्यः,
सम्यक्त्वतत्त्वरसिकश्चरिताऽवदातः ॥३३॥ उपजातिः - वैराग्यरङ्गाऽन्वित उच्चबोधिः,
श्रीरङ्गपूर्वो विजयाऽभिधानः ।