________________
३८७
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीनीतिसूरीश्वरपादभक्तः,
शिष्योऽपरोऽस्ति श्रितधर्मतत्त्वः ॥३४॥ वसन्ततिलका - आनन्दपूर्वविजयाऽङ्कितनामजुष्ट,
आचार्यवर्यचरणाऽब्द(ब्ज)मरन्दतुष्टः । वन्द्यो जनैः सकलसन्मुनिवृन्दनन्द्यः,
सज्ज्ञान-दर्शन-चरित्रभृतोऽस्ति शिष्यः ॥३५॥ भद्रङ्करो निखिलभव्यजनात्मनां यो,
भद्रादिनन्दविजयश्च मुनीन्द्रशिष्यः । शान्तोऽवदातचरितो गुरु-देवभक्तो,
विद्याविशुद्धहृदयोऽस्ति जिनेशरक्तः ॥३६॥ उपजातिः - प्रभाकरस्येव समस्तजीवान्,
तपःप्रभाभि( प्रकाशै )रभिभासयन् यः । मुनिः प्रभानन्दसुनामधेयः,
शिष्योऽपरोऽस्ति गुरु( स्त्येष सु)नीतिसूरेः ॥३७॥ इन्द्रवज्रा - श्रीमच्चरित्राऽधिपति-प्रधान
पट्टासनाऽऽसीन-यशस्करस्य । विद्यानिधेः श्रीयुतहर्षसूरेः,
सच्छिष्यमालामपि दर्शयामि ॥३८॥