________________
३८५
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सम्यक् श्रुताऽभ्यासकृति-प्रसक्तः,
संप्राप लोकान्तरमात्मचिन्तः ॥२५॥ मालिनी - शुभविजयमुनिस्तु स्वात्म-संध्यानकारी,
सतत-तपसि लीनो वर्तते तीव्रबुद्धिः । बहुविनय-विवेकी शुद्ध-चारित्रशीलः,
प्रथित-गुणगरिष्ठः सच्चरित्रः पवित्रः ॥२६॥ उपजातिः - देवेन्द्रसाधुः प्रभुबिम्बपूजा
करापणे दक्षतरः सुशीलः । संपालिताऽब्दद्वय-संयमस्तु,
जीवो मुनिः स्वर्गपुरीमियाय ॥२७॥ द्रुतविलम्बितम् - भुवननाममुनिर्बहुसद्गुणी,
गुरुवराऽङ्घिसरोरुह-षट्पदः । सततसाधु-सुसेवनकारको,
निरतिचारसुसंयम-पालकः ॥२८॥ उपगीति: - राजनगर-पुरजन्मा,
चम्पकमुनिरतिनिर्मलशीलः । कुरुते विद्याऽभ्यासं,
मेधावी विनयादिगुणौघः ॥२९॥