________________
३८४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शास्त्रज्ञ-सत्पाठक-सत्तपस्वी,
शेश्रीयमाणोऽस्ति गुरोः क्रमाब्जम् ॥२०॥ वैतालीयम् - कमलमुनिर्वत्सरत्रयं,
चारित्रं परिपाल्य नाकिनाम् । सहवासी भूतवान् सकः,
संध्यायन् जिनपाद-पङ्कजम् ॥२१॥ गुणविजयो द्वयब्दिकाऽवधि,
परिपाल्य संयमं महामनाः । देवलोकमध्यगादितो,
___ हृदये निधाय चाऽऽर्हतं पदम् ॥२२॥ उपजातिः - मुनिर्जयाख्यः सुतपांसि भूरि,
कृत्वा विनिर्धूय समस्तपापम् । जीनोऽपि दीक्षामुपनीय काले,
समाधिना द्यामुपयातवान् सः ॥२३॥ मुनिश्च विद्याविजयो जनोप
देशैकरागी निपुणोऽस्ति तस्मिन् । महाविनीतः कुशलः क्रियायां,
सत्साधुभक्तावधिकोत्सहिष्णुः ॥२४॥ इन्द्रवज्रा - पञ्चाऽब्दमात्रं परिपाल्य चारि
त्रं भक्तिनामा सुमुनिर्विनीतः ।