________________
३८२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् योऽभूत्तुरीयः सुविनीत-चारि
त्राख्यः सुशिष्यो बहुतीक्ष्णबुद्धिः । गम्भीरतादि-प्रगुणोपपन्नः,
सद्ब्रह्मचर्यव्रतिनां प्रमुख्यः ॥१०॥ कौटुम्बिकः पट्टण-सत्पुरेभ्य
मुख्यस्य जैनागम-पारदृश्वा । मेधाविनां मुख्यतमः स आसीत्,
तपिष्ठ-तेजिष्ठ उदारकीर्तिः ॥११॥ (युग्मम्) प्राचीनतीर्थोद्धृतिकारि-जैना
ऽऽचार्यप्रकाण्डा-ऽखिलवादिजिष्णोः । जगज्जनाऽऽदर्शमयाऽतुलस्य,
चरित्रनेतुः प्रभुनीतिसूरेः ॥१२॥ सच्छिष्यवर्गाः समधीतशास्त्राः,
परीषहाऽशेषसहाः सुधीराः । नखप्रमाणा विलसन्ति मह्यां,
विनीतवेषाः सकलाऽऽगमज्ञाः ॥१३॥ वसन्ततिलकावृत्तम् - पन्यास-दानविजयो बहुदान्त-शान्त,
आत्माऽनुचिन्तनरतो जितमोहमल्लः । आचार्यवर्य-विजयादिकहर्षसूरि
जैनागमादि-कतिशास्त्रविशेषविद्वान् ॥१४॥ एतच्चरित्र-वरनायक-पट्टसंस्थः,
स्वीया-ऽन्यदीयबहुशर्मकरो गुणाब्धिः ।