________________
३८१
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति - तदीय-शिष्यो मुनिनायको हि,
जितेन्द्रियेषु (याणां) खलु नायकोऽभूत् । अखण्डबोधिस्तपसि प्रकृष्टो,
दिवं गतोऽर्हत्सु विलीनचित्तः ॥५॥ मालिनी - रविविजयसमाख्यो योग्यशिष्यो द्वितीयः,
सतत-विहरमाणो नैकदेशेषु धीमान् । गुणिजन-गणनीयः शुद्धचारित्रशाली,
शुभगति-मतिदायी वर्तते श्रावकाणाम् ॥६॥ अरुणकिरणकान्तः शान्त-दान्तस्तृतीयो,
__मुनिवरसुमतस्य श्लाघ्यचारित्रभाजः । अरुणविजयनामा दीप्तधामा विनेयो,
जिनवर-गुरुभक्तो विद्यते धर्मसक्तः ॥७॥ वसन्ततिलकावृत्तम् - पन्यासभावविजयस्य गणीश्वरस्य,
आसीद् ऋजूत्तमधियो हि तृतीयशिष्यः । गम्भीरपूर्वविजयेतिशुभाभिधानः,
___ सम्यक्त्वतत्त्वविदुरश्छिदुरोंऽहसां यः ॥८॥ उपजाति: - ख-वेदवर्षाणि च पालयित्वा,
चारित्ररलं जनदुर्लभं सः । प्रान्ते तपस्यां कठिनां विधाय,
सत्स्वर्गलोकाभरणं प्रजातः ॥९॥ (युग्मम् )