________________
अनुयोगाचार्य - पंन्यास - श्रीमद्भावविजयगणिवर्याणां पट्टपरम्परा
वसन्ततिलकावृत्तम् -
पन्यास-भावविजयस्य महीयसोऽस्य,
जैनागमाऽब्धि परिमन्थन - मन्दरस्य ।
-
विश्वप्रसारि - शशिगौर-यशोधरस्य,
शिष्या बभूवुरिह वेदमिताः सुधीराः ॥१ ॥
आचार्यवर्य-सकलाऽऽर्हतशास्त्रपारा
वारीण-धीर - धिषणोऽनुपमोपदेष्टा । ज्ञानासिना निहतमोहविपक्षपक्ष
शिखरिणी
स्तेष्वादिमो विजयनीति-गरिष्ठसूरिः ॥२॥
स्रग्धरा
आजन्म ब्रह्मचारी स्वपरसमयवित् तारकाणां वरीयान्,
भक्ताऽज्ञानान्धकार-प्रचयपरिहृतौ भास्करो भूतलेऽस्मिन् । प्रौढात्यन्तप्रतापी सदसि च विदुषां वाग्मितावान् सुविद्वान्, जैनाचार्यप्रकाण्डः सकलवरगुणाऽलङ्कृतो वर्वृतीति ॥३॥
महोपाध्यायः स प्रथित- वरविद्वान् सुमतिमान्, दयोपाह्वः श्रीमान् सरलहृदयो वाचनपटुः । अखण्डं सौशील्यं दधदखिलजैनागमविदः,
समासीत् सच्छिष्यः शम - दम - दयावानतितराम् ॥४॥