________________
३७७
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् विजयनीतिमुनीशमनीषिणां,
सदुपदेशविधेः सुविधानतः । उदयपूर्जनतासु च जागृतिः,
समभवज्जिनधर्मकृतौ तदा ॥१२८॥ (युग्मम्) तदाऽकरोत् पर्युषणादिपर्वणि,
___तपःप्रवृत्तिं महतीं तदातनीम् । उदेपुरे जैनसमूह उच्चकै
जिनार्चनाभिर्निजकर्मनिर्जराम् ॥१२९॥ उपजातिः - नाऽऽसीच्च तत्राऽऽनवतेः शरद्भ्यः ,
महोपधानस्य पुरा प्रवृत्तिः । श्रीनीतिसूरीशहितोपदेशाद्,
अस्मिश्चतुर्मास इहाऽभवत् सा ॥१३०॥ सपञ्च-नन्द-ग्रह-भूमिसंख्ये (१९९५),
___ अहम्मदावादपुरेऽब्धिमास्सु । आचार्यवर्या विजयादिनीति
सूरीश्वराः संघमहाग्रहाच्च ॥१३१॥ श्रीलोहकारस्य सुवित्तवीथ्यां,
शिष्यैः प्रशिष्यैः सह बोधवित्तैः । मुदा ह्यवात्सू रुचिरेऽत्र वर्षे,
जिनेन्द्रधर्मोन्नतिलग्नचित्तैः ॥१३२॥ (युग्मम्)