________________
३७८
-तोटकवृत्तम् -
स्रग्धरा
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
-
-
व्रजनाथविपश्चिदुदारधिया, शिवशङ्करशास्त्रिसुधर्मधिया ।
कृतमुच्चमिदं च सुपद्यमयं, समवार्षिकवर्णनमीड्यतमम् ॥१३३॥
श्रीमत्पन्यासकल्याणविजयवरधी - शुद्धभाषासुलेखं, चाऽऽश्रित्यैतद्गुरूणा - मनुपममहिम - स्फारकीर्तिव्रजानाम् । सूरीशां नीतिनाम्नां विहितसमचतुर्मास्यसंख्यानमेतत्, संक्षिप्तं श्लोकबद्धं विपुलमतिमतां तुष्टयेऽमत्सराणाम् ॥१३४॥
तोटकवृत्तम् -
शर-नन्द-नवैकसुवत्सरके (१९९५), विमलाचलतीर्थपवित्रपुरे । परिपूर्णमभूत् सुमुनीन्द्रपते
श्चरितं भवताद् भुवि मोदकरम् ॥१३५॥
इति श्रीविजयनीतिसूरीश्वरचरित्रे चातुर्मास्याख्यानं समाप्तं