________________
३७६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अहम्मदावादपुरे वरेण्ये,
शिष्यैः प्रशिष्यैः सह धर्मधुर्या:- ॥१२२॥ श्रीलोहकाराऽभिधवित्तवीथ्या,
उपाश्रये साधुवराश्रये वै । वर्षाब्धिमासान् विधिना ह्यवात्सुः,
संघाग्रहाद् धर्मविबोधनार्थम् ॥१२३॥ (युग्मम्) सम्पद्विशाले नगरे विशाले,
उपाश्रयेषु ह्यपरेषु तत्र । शिष्यान् स्वकीयान् भविबोधनाय,
प्रैष्यंश्चतुर्मासनिवासहेतोः ॥१२४॥ संवत्सरीनिर्णयविग्रहेऽपि,
सर्वत्र साम्यस्य निदर्शनेन । ... सर्वज्ञसूक्ताऽमृतवर्षणेन,
भव्यात्मचेतःपरितर्पणेन ॥१२५॥ लोकस्य मिथ्यात्वविकर्षणेन,
श्रीसंघसन्मानसहर्षणेन । सूरीश्वराः पर्युषणादिपर्वा___ण्यचीकरन्नुच्चमहोत्सवेन ॥१२६॥
(त्रिभिर्विशेषकम्) द्रुतविलम्बितम् - उदधि-नन्द-नवैकमिताङ्कते (१९९४),
नृपतिविक्रमनिर्मितवत्सरे । गुरुवरा उदयादिपुरेऽभवन्,
घनघनागममासनिवासिनः ॥१२७॥