________________
३७१
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम्
मानोदयाभ्यामददाद्गणीति
___ पदं मुनिभ्यां सुमहेन तत्र । नानातपस्या सुमहाश्च नैके
__ बभूवुरेतत्सुगुरूपदेशात् ॥१५॥ द्रुतविलम्बितम् - कपडवञ्ज-पुरे विबुधाऽग्रणी, -
रस-वसु-ग्रह-भूमिमिताऽब्दके (१९८६)। जलमुचां समयं व्यनयन्मुदा,
सुमुनि-भक्तिमदीक्षयदेषकः ॥१६॥ उपजातिः - जावालपुर्यामकरोच्चतुर्मा
सीमेष तप्ताऽष्ट-नवेन्दुवर्षे (१९८७)। अबीभवद्धर्ममनेकमत्र,
सत्पौरलोकैर्महता महेन ॥१७॥ सद्विद्य-मोती-मुनि-मुक्ति-धीर
विचक्षण-श्रीतिलकाऽभिधानाम् । सद्बुद्धिकश्रीउदयाऽऽख्य-कल्या
णयोश्च मुन्योर्विहितोत्सवेन ॥९८॥ गणीत्युपाधि प्रवितीर्य पश्चात्,
प्रादाच्च पत्र्यासपदं ह्यमीषाम् । तदर्थमाष्टाहिकमुत्सवं हि,
सच्छान्तिकस्नात्रसमर्चनं च ॥९९॥ (युग्मम्)