________________
३७०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् जूनागढे तैर्थिकमालया तं, ..
संघाऽधिपं सम्यगभूषयच्च ॥८९॥ तोटकम् - उपधान-तपः परमं समहं,
समभूदिह चारुतरं विधिवत् । अजनिष्ट सुकृत्यमनेकजनान्,
प्रतिबोधितवानसकौ सुगुरुः ॥१०॥ उपजातिः - उदन्वदष्ट-ग्रह-रोहिणीश
सम्वत्सरे प्रावृषमध्यवात्सीत् (१९८४)। स राधनाऽऽद्यं पुरमार्हताना
मत्याग्रहाद्भरिमहामहेन ॥११॥ आर्या - उपदिश्य सर्वपौरा-ञ्छ्रीरलविजय-जैन-पाठशालाम् ।
इहाऽतिष्ठिपत्सूरिः, स जैनबोर्डिङ्गमपि रम्यम् ॥१२॥ उपगीतिः - मशालिया-बापुलाल-जमनादासाऽभिधः श्रीमान् । शर-शशि-सहस्रमुद्रा, वितीर्यौदार्यमदर्शयच्च (१५०००)॥१३॥ उपजाति: - पञ्चाऽष्ट-रन्ध्र-क्षितिविक्रमाऽब्दे (१९८५),
राजाऽऽदिके सन्नगरे गरीयान् । चक्रे चतुर्मास्यमनल्पलोकाऽऽ
ग्रहेण सौशील्यचणः प्रविद्वान् ॥१४॥