________________
२०
वसन्ततिलका
इन्द्रवज्रा
उपजाति:
-
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम्
पन्यास-पद्मविजयः समतिष्ठताऽस्य,
पट्टे कुशाग्र-मतिको गुणवद्-गरीयान् । ज्ञानासिना निहत - मानस - मोह-मायः,
सद्बोधि-बीज-ददिताऽखिल - सज्जनानाम् ॥१२९॥
पन्यास-रूपविजयोऽखिल-शास्त्रचुञ्च
र्जग्राह तस्य मतिमज्जनताऽग्रगण्यः । पट्टं समस्त धरणीतल-गीत- कीर्ति
र्वादीन्द्र-मत्त - गज- कानन - चारि - सिंहः ॥१३०॥ आस्तैतदीय-गुरु- पट्ट उदार - कीर्तिः,
श्रीमानमीविजय उज्ज्वल - दीप्ति-दीप्रः । पन्यास - मुख्य उपकार - रतः समेषां,
कारुण्य-वारि-परिपूर्णतरस्तटाकः ॥१३१॥
पन्यास- सौभाग्य-विजिच्छरण्यः, पट्टं तदीयं समलञ्चकार ।
सैद्धान्तिकः शासन-पद्म-भानु
स्त्यक्तः कषायैर्जित-वादिवृन्दः ॥१३२॥
श्रीरत्नपूर्वो विजयो विशेष
तत्त्व-प्रवेत्ता जगति प्रसिद्धः ।
पन्यास - भागस्य विशेषपट्टं,
समग्रहीदुज्ज्वल-शील - शाली ॥ १३३ ॥