________________
महात्मनः पंन्यासश्रीभावविजयस्य पट्टावली ।
इत्थं क्रियोद्धारकरस्य जिष्णोः,
___पन्न्यासभाजो मुनिपुङ्गवस्य । सत्यादिक-श्रीविजयाऽभिधस्य,
पादाऽब्ज-सौरभ्य-विलुब्ध-भृङ्गः ॥१२४॥ वसन्ततिलका - कर्पूर-पूर्वविजयः श्रुत-पारदृश्वा,
तत्पट्ट-मेरुशिखरे समुदैद्दिनेशः । पत्र्यासभृत्सुजन-मानस-पङ्कजाली
प्रोल्लासकृत्कुजन-कौशिक-दृष्टिहारी ॥१२५॥ पट्टेऽस्य धीर-धिषणः करुणाऽम्बुराशिः,
शीतांशुवद्रुचिर-तानव-कान्ति-कान्तः । पन्यासभागमित-सद्गुण-तोयराशिः,
श्रीमान् क्षमाविजय उज्ज्वलकीर्तिरास्त ॥१२६॥ मालिनी - जिनविजय उदन्वान् सद्गुणानां महीयान्,
गुणि-गण-गणनायामादिमः सच्चरित्रः । सकल-जन-नुताङ्घिः सर्वतन्त्र-स्वतन्त्रो,
न्यसददमलपट्टे तस्य पत्र्यासमुख्यः ॥१२७॥ आर्या - श्रीमानुत्तमविजय-स्तत्पट्टे निषसाद सद्विपश्चित् । शासन-कमल-दिनेशो, धृत-पन्न्यास उदारचारित्रः ॥१२८॥