________________
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् साऽवोचतैनं त्वयकाऽधुना कथं ?,
ह्याकारिताऽहं दिश कृत्यमाशु मे । सोऽप्यब्रवीत्तां कुरु नः सहायतां,
___ संवेग-शैथिल्य-विभागमिच्छताम् ॥११९॥ सा देविका तं पुनरेवमूचुषी,
स्वामिन्नवश्यं तव मानसेप्सितम् । सिद्धिं व्रजिष्यत्यचिरेण सद्गुरो !,
___ व्याहृत्य चैवं ह्यभवत्तिरोहिता ॥१२०॥ उपजातिः - निशीथचूर्णी-धृत-पाठमूलात्,
संवेगि-चिह्न विदधे स एवम् । चूर्णैः सुमिश्रीकृत-खादिरेण,
रागेण रक्ती( पीती )कृतमुत्तरीयम् ॥१२१॥ दिनाच्च तस्माच्छ्रमणा अशेषाः,
संवेगिनस्तादृशमुत्तरीयम् । धर्तुं हि लग्ना अमुनैव तेषां,
जातो विभागः शिथिलीभवद्भ्यः ॥१२२॥ यत्साम्प्रतं चाऽऽर्हत-साधु-साध्व्यः,
तद्रञ्जनं जात्वपि नैव कुर्वते । यदृच्छया केशरकाऽऽदिनैव,
तद्रञ्जयन्ते तदयुक्तमेव ॥१२३॥