________________
उमताग्रामे पंन्यासभावविजयनाम्ना गृहीता दीक्षा ।
मालिनी
उपजाति:
—
प्रभव - विजयसूरिः सप्तदश्यां शताऽब्यामभवदखिल - जैनाऽऽचार्य - चूडामणिः सः ।
इन्द्रवंशा
तप-गण-गगनेऽस्मिन् भास्करः प्रोदियाय,
यमिह सकल - जैना मन्वते सार्वभौमम् ॥ ११४॥
तदाज्ञयाऽसावनुयोगपूर्वा ऽऽचार्याऽऽत्त-पन्यासपदः प्रविद्वान् श्रीसत्यपूर्वी विजयस्तदानीं क्रियां समुद्धर्त्तुमना बभूव ॥ ११५ ॥
वसन्ततिलका
,
कौलिङ्गिकाऽऽदि सहवासितयाऽन्यतो वा,
सञ्जात-साधु-शिथिलाऽऽ - चरणाऽऽदि दोषान् । व्युच्छेत्तुमेव नियतीकृत - साधनं यत्,
वित्त क्रियोद्धृतिमतुच्छधियस्तदेव ॥ ११६॥
आत्मोन्नतेः सुगम - वर्त्मनि सङ्गताना
मक्षय्य - सौख्य-परिपित्सु - मुनिव्रजानाम् । स्वाचार - रत्न- परिहार- कर- प्रमादs -
त्यन्त - प्रलोप- करणैकमना भवन् सः ॥११७॥
प्रस्थाय धीमानथ सत्वरं ततः,
१७
सम्प्राप्य राणोदयपूर्वकं पुरम् ।
आराध्य तां शासनदेवतामरं,
संतस्थुषीं तां पुरतः किलैक्षत ॥११८॥