________________
३६७
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सूरीश्वरस्याऽस्य महोपदेशा
च्छाद्धाऽऽदिलोकाः सकलाश्च पौराः । जीर्णोद्धृतेः कार्यमकारयन्त,
कायेन वित्तेन गिरा च बाढम् ॥७३॥ नभः सिते भूधरजासुतिथ्यां,
पन्यास-भावाऽऽख्यगुरोः प्रयाणम् । स्वर्गीयमाकर्ण्य जना इहत्या,
आष्टाहिकाऽऽद्युत्सवमारभन्त ॥७४॥ वियगिरीन्द्र-ग्रह-चन्द्रवर्षे (१९८०),
स राजपूर्वे नगरे विशाले । डेलाऽभिधोपाश्रय इद्धतेजाः,
समस्थित प्रावृषि वेदमासान् ॥७५॥ रेमन्त-भूध्रोपरि-जीर्णचैत्य
समद्धृताविभ्यगणा इहत्याः । पादोनलक्षं व्यतरंश्च मुद्राः,
श्रीनीतिसूरीश्वर-सूपदेशात् ॥७६॥ मालिनी - गुण-कमलसुमुन्योरत्र दीक्षाऽजनिष्ट,
शशधर-वसु-नन्द-मामिते वत्सरेऽसौ (१९८१)। सुविहित-वर-सूरि-वाजि-चूडामणीयान्,
जलद-समय-वाँकानेरवासी बभूवान् ॥७७॥ गीतिः - गुर्जर-पट्टणपुर्यां, पन्यासदयाविजयाय धीमते ।
इहोपाध्यायपदवीं, शान्तिमुनयेऽदित पन्न्यासपदवीम् ॥७८॥