________________
३६६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तपोऽधिक-स्व-द्रविण-व्ययेन,
प्रान्ते च मालापरिधापनाऽऽदि ॥६७॥ अष्टाऽश्व-रन्धेन्दुमिते च वर्षे (१९७८),
वेरावले चाऽस्य बभूव सूरेः । रम्यश्चतुर्मास्य उदारबुद्धे
लाभो महान् पौरजनस्य जज्ञे ॥६८॥ इतो गतो रैवत-भूधरोप
रिष्टादपश्यन्महतीं च तत्र । आशातनां सूरिवरस्ततोऽयं,
जूनागढं चाऽऽगतवान् सुशिष्यैः ॥१९॥ संस्थापयामास च तत्र पुर्यां,
सेवासमाजं नरराज-मन्त्री । .. अत्यन्त-धर्मिष्ठ-कुशाऽग्रबुद्धिः,
समाययौ तेन सहाऽमिलच्च ॥७०॥ औपच्छन्दसिकं - गोविन्द-खुशालचन्दनामाऽऽ
दिक-सुधियां साहाय्यदानतश्च । रैवताद्रिपर्वतोपरिष्टा
ज्जीर्णोद्धतिमारम्भयच्च सूरिः ॥७१॥ उपजातिः -
नव-स्वराऽङ्केन्दुमिते च वर्षे (१९७९),
___ जूनागढेऽसौ स्थितवान् प्रविद्वान् । वर्षर्तुकालं सह भूरिशिष्यैः,
सज्जैन-धर्माऽम्बुज-पद्मबन्धुं ॥७२॥