________________
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
आर्या
इन्द्रवज्रा
उपजाति:
रस- स्वराऽङ्कक्षिति- मानवर्षे (१९७६), सहः सिते पन्नगराजतिथ्याम् । रसाऽग्नि- गुण्याय महामहिम्ने,
यशस्विनेऽशेष - जनप्रियाय ॥६२॥
पन्यास - भावो गुरुरेतकस्मै, सहर्षमाचार्यपदं गरीयान् । प्रदत्तवान् संसदि सज्जनानां,
तुरङ्ग - सप्त-ग्रह-शीतरश्मि (१९७७)वर्षे च शत्रुञ्जयतीर्थमध्ये | चक्रे चतुर्मास्यमसौ महीयान्,
महाजनानामतिमोदमानः ॥६३॥ ( युग्मम् )
—
आचार्य-वर्यः प्रभु-नीतिसूरिः ॥६४॥
राजनगरपुरि सूरि- छगनलाल - इच्छाचन्दाख्येन । कारयित्वोपधानं, पादलिप्तनगरमुपयातः ॥६५॥
आष्टाहिकश्चारु- महामहोऽत्र, शान्त्यादिकस्नात्रसमर्चनं च ।
-
सेवासमाजाऽभिध- संसदश्च, संस्थापनाऽभूदुपदेशतोऽस्य ॥ ६६ ॥
स जीवराजो धनजीभ्यपुत्रः, प्राचीकरच्चात्र महोपधानम् ।
३६५