________________
३६२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आख्यानिकी - खर्षि-ग्रहेन्दुप्रमिताऽब्दकीय-(१९७०)
सहः सिते मारतिथावमीषाम् । गणीत्युपाधि प्रवितीर्य राका
तिथौ च पन्न्यासपदं व्यतारीत् ॥४७॥ अथाऽऽगमद्वीरम-गामनाम
पुरं जनानामधिकाऽऽग्रहेण । चक्रे चतुर्मास्यमिहाऽसकौ हि,
व्योमाऽश्व-नन्द-क्षितिसंख्यवर्षे (१९७०) ॥४८॥ मही-स्वराऽङ्क-क्षितिहायने च (१९७१),
सद्राजपूर्वं नगरं व्रजित्वा । स पिञ्जरापोलउपाश्रयेऽसौ,
सन्तस्थिवान्समासचतुष्टयं हि ॥४९॥ अस्मिश्च वर्षे हि मेदपाट
देशे परिभ्रम्य कियत्पुरेषु । लुम्पाकजैनानपि शुद्ध-देव
गुरुप्रभक्तानकृतोपदेशैः ॥५०॥ मालिनी - अयन-मुनि-नवेन्दौ वत्सरे पट्टणेऽसौ (१९७२),
जलद-समय-घस्रान् यापयामास विद्वान् । सुभविक-जनवृन्दैः कारयन् धर्मकृत्यं,
सदसि विपुल-सभ्याञ्छावयन्नागमं सः ॥५१॥