________________
३६१
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रेष्ठी झवेरी गुणवानुदारः,
श्रीमानुजम्सीयुतवीरचन्द्रः । ददौ सहस्रं दशपञ्च मुद्राः,
सुश्रावकस्तत्क्षणमेतदर्थम् ॥४२॥ मालिनी - नव-रस-निधि-चन्द्रे हायने राध-शुक्ले (१९६९),
मदन-दहन-जायासत्तिथौ तत्र पुर्याम् । नगर-जन-वरिष्ठैः स्थापिता पाठशाला,
चरितपति-समस्ताऽऽदेय-सारोपदेशात् ॥४३॥
इन्द्रवज्रा -
तत्रैव घस्त्रे बृहती च दीक्षा,
कल्याणसाधोर्गुरुभिः प्रदत्ता । प्रस्थाय तस्मात्समुपेत्य राध
___ नाऽद्ये पुरे प्रावृषि तस्थिवान् सः ॥४४॥ आसंश्च पार्श्वे शर-रामसंख्याः ,
सत्साधवो बुद्धिमतां वरिष्ठाः । तपस्य-शुक्ले प्रतिपत्तिथौ चो
दयस्य दीक्षा बृहती प्रदत्ता ॥४५॥ द्रुतविलम्बितम् - मतिमतां मुनिदेव-दयाऽभिध
प्रचुर-सद्गुण-दानतपस्विनाम् । सुमुनि-हर्ष-सुभक्त्यभिधावतां,
भगवतीवरयोगमवीवहत् ॥४६॥