________________
३६०
तत्रत्य - योग्यौ भव-संविरक्तौ, सन्दीक्ष्य घस्त्रे शुभदे तदीये । श्रीमुक्ति - राजेत्यभिधे प्रचक्रे, पन्यास - नीतिः प्रभुरुग्रतेजाः ॥३७॥
औपच्छन्दसिकम् -
विसनगरमसावुपेत्य धीमान्,
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
अकृत जलदकालिकं निवासं,
उपजाति:
मुनि-रस- निधि-भूमिते च वर्षे (१९६७) ।
समभवदुपधानाऽऽदिकृत्यमस्मिन् ( धानकादिकृत्यम् ) ॥३८॥
अष्टाऽङ्ग-रन्ध्र-क्षितिवत्सरेऽसौ,
सद्वीरम - ग्राममुपेत्य तस्थौ । ..
पयोदमासांश्चतुरः सुखेन, सुधोपदेशाऽधिकवर्षणेन ॥ ३९ ॥
सन्तर्पयन् पौरजनानशेषान्,
धनैश्च लोकैरुपधानमत्र |
करापयंश्चन्दन-मानसाध्वो
र्दीक्षां च गुर्वी ददिवानिहाऽसौ ॥४०॥
अत्राऽसकौ संस्कृतपाठशाला
संस्थापनार्थं सकलान्महेभ्यान् ।
व्याख्यानमध्ये समुपादिदेश,
ज्ञानप्रवृद्ध्यर्थमतुच्छबुद्धिः ॥४१॥