________________
३५८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ततो विहारं प्रविधाय चाऽऽगात्,
स मोरबीपत्तनमत्र पौराः । अष्टाह्निकं चारु-महामहं हि,
प्रारप्सतैतत्सुगुरावुपेते ॥२६॥ अपूर्वदृश्यो वर-घोटकश्च,
बेण्डाऽऽदिवादित्र-कदम्बकेषु । नानद्यमानेषु वधूजनेषु,
गायत्सु पैक-स्वर-जित्वरेषु ॥२७॥ महाई-वस्त्राऽऽभरणोज्ज्वलेष्व
संख्येषु लोकेषु पुरःसरेषु । बभ्राम पुर्यां भगवद्रथेन,
शक्रध्वजेनाऽपि समं चिराय ॥२८॥ तत्राऽभवत्स्थानकवासिनां च,
महासभा तत्र हि सद्गृहस्थाः । येऽभ्यागतास्तन्मत-मुख्यलोकाः,
सर्वेऽपि तेऽस्मिन् परिबभ्रमुश्च ॥२९॥ हुताऽशनाऽङ्ग-ग्रह-भूमि वर्षे (१९६३),
प्रावृष्यतिष्ठत्स हि राधनाऽऽद्ये । पुरे सहः कृष्ण-फणीशतिथ्यां,
दिवान-सुश्रावक-धर्मचन्द्रः ॥३०॥ महामनाः केशरियाजिसंघ,
निष्कासयामास सकोऽपि तस्मिन् ।