________________
३५७
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीपादलिप्ते नगरे सुतीर्थे,
गत्वा ततः सूर्यपुरं पुरं सः ॥२०॥ सहःसिते भोगितिथौ गणीति
पदं प्रपेदे गुरुदत्तमेषः । एदेरपुर्यां स महोपधानं,
धनैश्च लोकैः समचीकरच्च ॥२१॥ सेना-चुनीलाल-समाख्य इभ्यः,
श्रीभोयणीपावन-तीर्थमध्ये । उद्यापनं तत्र महामहेन,
चक्रेऽस्य नेतुश्चरितस्य वाचा ॥२२॥ वसन्ततिलका - नेत्राऽङ्गनन्दवसुधामित-विक्रमाऽब्दे (१९६२),
चोर्जे सितेतरदले शुभ-विश्वतिथ्याम् । पन्यास-भावविजयो मुनिराजवर्यः
शत्रुञ्जये परम-पावनतीर्थमध्ये ॥२३॥ उपजातिः -
ददौ च पन्यासपदं महेन,
____ महीयसा सद्गुणसागराय । विद्वत्तमायाऽतुलतेजसेऽस्मै,
चरित्रनेत्रे सदसि प्रसन्नः ॥२४॥ (युग्मम्) ततस्ततश्चैष समेत्य राज
कोटं चतुर्मासिकवासमत्र । प्राचर्करद्भरिमहोत्सवैर्हि,
__ निश्शेषवादि-द्विपता-मृगेन्द्रः ॥२५॥