________________
३५६
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
निपीय पीयूषसमोपदेशममुष्य चैतच्चरिताऽधिनेतुः । प्रबोधमापद्य महोत्सवाऽऽदि, तेऽप्यत्र चक्रुर्गुरुदेवभक्ताः ॥ १५ ॥
निधीषु - रन्ध्र-क्षिति- मापितेऽब्दे (१९५९)सौ राजपूर्वे नगरे व्यधात्सः । डलकोपाश्रय एव धीमान्,
विद्वाँश्चतुर्मास्यमदभ्र-तेजाः ॥१६॥
सत्पुस्तकाऽगारिक- सुव्यवस्था
मप्यत्र चक्रे महता श्रमेण । विलोक्य सर्वाण्यपि तानि चाऽऽसु,
प्रज्ञानिनामग्र्यतमो मुनीन्दुः ॥१७॥
झवेरि-छोटायुतलाल- वज्जू
नामेभ्यसञ्चालित - संघ - सत्रा ।
शत्रुञ्जयं तीर्थमसावुपेत्य,
युगाऽऽदिनाथं प्रभुमालुलोके ॥१८॥
व्योमाऽङ्ग-नन्देन्दुमिते च वर्षे (१९६०),
प्रावृष्यसौ सूर्यपुरे प्रतिष्ठाम् ।
लेन-स्थितस्याऽऽर्हत- चैत्यकस्य,
विधातुमस्थापि समस्त - संधैः ॥१९॥
मही- तर्क-निध्येकमिते च वर्षे (१९६१)करोच्चतुर्मास्यमयं महेन ।