________________
३५४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् पक्षेषु-रन्धेकमितेऽपि वर्षे (१९५२),
तत्रैव रुग्णस्य गुमानसाधोः । कर्तुं तदीयां महतीं सुभक्तिं,
वर्षर्तुकालं गमयाञ्चकार ॥५॥ हुताश-भूत-ग्रह-चन्द्रवर्षे (१९५३),
चक्रे चतुर्मास्यमसौ मुनीन्दुः । संघाऽऽग्रहात्पट्टणपत्तने हि,
शास्त्रं समध्यैष्ट तपश्च कुर्वन् ॥६॥ सांसारिकं तत्र समेतवन्तं,
श्रीफूलचन्द्रं पितरं च बाढम् । सम्बोधयामास विशेषमेष, ..
विचक्षणस्तीक्ष्ण-विशाल-मेधः ॥७॥ वेदेषु-नन्द-क्षितिसम्मिताऽब्दे (१९५४),
शीपोरपुर्यां चतुरश्च मासान् । सन्तस्थिवान् पौरजनाऽऽग्रहेण,
सुखेन धीमान् गुरुभिः सहैषः ॥८॥ भुजङ्गप्रयातम् - समुत्साहि-पौरा अशेषा विशेष,
दिनान्यष्ट तस्मिन् महञ्चातिरम्यम् । व्यधुः पञ्चतीर्थ्या विनिर्माणमर्हत्
समर्चाऽऽदिकृत्यं प्रशस्तं सहर्षम् ॥९॥