________________
उपजाति:
अथ चातुर्मास्याऽऽख्यानम्
-
चरित्रनेता निजहस्त-दीक्षां,
स्वीकृत्य नन्दाऽब्धि-निधीन्दुवर्षे (१९४९) । प्रावृष्यवात्सीत् प्रथमं स मेर
बाडाऽभिधाने नगरे गरीयान् ॥ १ ॥
ख- पञ्च- रन्ध्र-क्षितिवत्सरीये (१९५०),
चोर्जे सिते विश्वतिथौ ( ११ ) स दीक्षाम् । पार्श्वे विजित्कान्तिमुनेर्गृहीत्वा, पन्यासजिद्भावमुनेश्च शिष्यः ॥२॥
वसन्ततिलक
उपजाति:
माघे सिते गणपतेः सुतिथौ च शुक्रे, पं० श्रीप्रतापविजयस्य शुभङ्करेण । पाण्यम्बुजेन बृहतीं परिगृह्य दीक्षां
बीजापुरे न्यवसदेष पयोदकालम् ॥३॥
मृगाङ्कबाणाऽङ्कमहीमिताऽब्दे (१९५१ ),
श्रीराजपूर्वे नगरे न्यवात्सीत् । व्योकार - पोलीय - उपाश्रयेऽसौ,
शास्त्राण्यधीयान उदारबुद्धिः ॥४॥