________________
३५०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् स्वीयाऽन्याऽशेषशास्त्राऽधिकतरविदुषः शासनाम्भोजभानो
जैनाचार्यप्रभाविक्षितितलपवितुः सर्वजीवोपकर्तुः ॥८९७॥ पृथ्वीच्छन्दः - दिवाकरसमुज्ज्वलद्-विजयनीतिसूरीशितू,
रसाऽग्निगुणधारका-ऽमलतनोर्महायोगिनः । स्वभक्तजनतारणे जगदपारपाथोनिधे
र्गतस्य दृढपोततामखिललोकमान्यप्रभोः ॥८९८॥ वैतालीयम् - शशि-नव-निधि-भूमिवत्सरा
ऽवधिक-जीवनचरित्रमुज्ज्वलम् । जन्मतः सुचारुवृत्तकै
भू-ग्रह-नन्दधरामितेऽब्दके (१९९१) ॥८९९॥
इन्द्रवज्रा -
पन्न्यास-कल्याणमुनेस्तदीय
शिष्यस्य भाषामयलेखमात्रम् । आश्रित्य तेनैव विपश्चिता च,
नुन्नेन नानाकमनीयवृत्तैः ॥९००॥ वैतालीयम् - पादलिप्तपत्तने मया,
व्याकरणतीर्थ-भूषणेन वै । मैथिलेन शास्त्रिणा मुदा, व्रजनाथाऽभिधधीमता कृतम् ॥९०१॥
(पञ्चभिः कुलकम्)