________________
ग्रन्थसमाप्तिः ।
उपजातिः
—
आचार्यवर्यस्य गुणैर्वरेण्यैराकर्षितेनाऽऽत्मनि हर्षितेन ।
साहित्य- सद्व्याकरणे च शास्त्रे, आचार्य इत्युच्चपदाऽङ्कित्तेन ॥ ९०२ ॥
वसन्ततिलकावृत्तम् -
श्रीपादलिप्तनगरे नगरेषु नन्द्ये,
शत्रुञ्जयाश्रयतया समविश्ववन्द्ये ।
मोरारजीतनुजुषा शिवशङ्करेण,
उपजाति:
पूर्णीकृतं सुचरितं च यतोऽवशिष्टम् ॥९०३॥
पञ्च-ग्रह-ग्रह-धराऽङ्कमिते सुवर्षे,
मासोत्तमे नभसि शुक्लसुपूर्णिमायाम् । आचार्यवर्यचरितं चरिताऽवदातं,
पूर्णीकृतं सुगुणपूर्णतमं तदेतत् ॥९०४॥
नेदं कृतं कविवरेन्द्रसुकीर्तिलोभाद्,
नैवाऽथवाऽऽत्मगतबुद्धिविशिष्टमोहात् । किन्त्वीदृशो मुनिपतेश्चरितं विधाय,
भव्योच्चबोधजननाय मम प्रयासः ॥ ९०५ ॥
अद्यन्तमेतत् सुधियः पठन्तो,
भवन्तु चाऽऽदर्शमया जगत्याम् ।
एतद्धियैवैष महोच्चबुद्धिः,
पन्यास- कल्याणमुनिर्महात्मा ॥ ९०६ ॥
३५१
( युग्मम् )