________________
३४९
श्रीविजयनीतिसूरीश्वर गुणकीर्तनम् । उपजातिः - धनाभिधश्रीरथकारवीथि
निवासिसज्जीवनचन्द्रनाम्नः । पुत्रो धनी सांकलचन्द्रनामा,
जिनेशधर्मे दृढभक्तिधामा ॥८९३॥ शार्दूलविक्रीडितम् - वैशाखाऽभिधमासके जनमनोमोदप्रदे चोत्तमे,
श्रेष्ठ शुक्लदले तिथौ शुभकरे वर्षे वरे वासरे । छोडेत्युत्तमनामधेयसुजुषां सद्विश्रुतानां भुवि, पञ्चानां बहुमूल्यकान्तिविभृतामुद्यापनं स व्यधात् ॥८९४॥
(युग्मम्) उपजातिः - एवं जिनेन्द्रोक्तसुशासनस्य,
प्रभावनाकार्यकरा वरेण्याः । विद्वद्वरा भव्यजनोपदेशा
द्यनेकसत्कार्यविधायकाश्च ॥८९५॥ आचार्यवर्या विजयादिनीति
सूरीश्वराः संयमपालकाश्च । जीवोद्धृतौ जीवनधारकास्ते,
जयन्त्यजेया गुरवो जगत्याम् ॥८९६॥ (युग्मम्)
स्रग्धरा -
आजन्म-ब्रह्मचारि-प्रसृतशशिसम-स्फारकीर्तिव्रजस्य,
वादीन्द्राऽखर्वगर्वक्षितिकरणपटोः सच्चरित्रस्य जिष्णोः ।