________________
पूर्वोक्तप्रतिष्ठामहोत्सव वर्णनम् । संघे एक्यम् । शार्दूलविक्रीडितम् -
श्रीमत्पञ्च-नव-ग्रहैकसुमिते श्रीवैक्रमे वत्सरे (१९९५), सन्मासोत्तममाघमासविदिते श्रीशुक्लपक्षे शुभे । पूर्वाह्णे शुभसप्तमीमिततिथौ सौम्ये सुलग्ने तथा, पादोनप्रमिते प्रगे सुसमये रुद्राङ्कके वादने ॥८८३ ॥
वन्द्यश्रीविजयादिनीतिमुनिपश्रीयुक्तहस्ताम्बुजैः,
कल्याण्यः प्रतिमाः प्रभाविजिनपां संघैः प्रतिष्ठापिताः । तस्मिन्नेव दिने तथैव समहं पापापहारक्षमं,
स्नात्रं तत्र सुपाठितं सुविधिभिश्चाऽष्टोत्तरं सन्मतम् ॥८८४ ॥ ( युग्मम् )
तस्मिन्नेव सुमासके सितदले भव्याष्टमीसत्तिथौ, चत्वारिंशदभीष्टपञ्चसहित श्रेष्ठागमानां तदा । एवं शुक्लत्रयोदशाऽङ्किततिथौ श्रीमत्प्रतिष्ठामहे,
उपजाति:
पूजां सत्तरभेदिनामविदितां संघो मुदाऽपाठयत् ॥८८५ ॥
अस्मिन् प्रतिष्ठासुमहोत्सवे च,
श्रीजैनसंघः समुदारभावात् ।
साधर्म्यवात्सल्यविधानकादौ,
धनव्ययं धर्मकृतावकार्षीत् ॥८८६॥
तथैव तस्मिन् प्रथितोत्सवे च, द्वाविंशतिः श्रेष्ठसहस्त्रमुद्राः ।
३४७
साहाय्यकार्थं वरमन्दिरस्य,
प्राप्ता धनीशां समुदारवृत्त्या ॥८८७॥