________________
३४५
श्रीअहमदाबादपूरे रूपासुरचंदपोले जिनमंदिरप्रतिष्ठा । ____३४५ श्रीनालिकेरादिकसत्फलैश्च,
प्रभावनां धर्महितामकार्षः ॥८७२॥ अहम्मदावादपुरे वरेण्य,
प्रसिद्धरूपासुरचन्दवीथ्याः । श्रीसंघ आत्मीयसुपाटकान्त
विनिर्मिते श्रीजिनमन्दिरे वै ॥८३७॥ श्रीवीतकालुष्यजिनेश्वराणां,
___ कर्तुं प्रतिष्ठां प्रतिमावराणाम् । महाप्रभावं शुचिशीलशोभं,
सूरीश्वरं प्रार्थयताऽऽग्रहाढ्यः ॥८७४॥ (युग्मम्) आचार्यवर्यो ह्यपि धर्मधुर्यो,
जिनेन्द्रसच्छासनवृद्धिहेतोः । तत्प्रार्थनां भावयुतोऽन्वमंस्त,
भव्यात्मबोधं प्रति लग्नचेताः ॥८७५॥ श्रीपौषमासाऽसितपुण्यपक्षे,
एकादशीशुद्धतिथौ स संघः । बिम्बप्रतिष्ठापनसन्निमित्तं,
श्रीकुम्भसत्स्थापनमन्वतिष्ठत् ॥८७६॥ आरभ्य तस्माद् वरवासराच्च,
प्रावीवृतदु( ध्यु)च्चमहोत्सवोऽत्र । आचार्यवर्यस्य वरोपदेशात्,
श्रीशासनोत्कर्षकरोऽतिभव्यः ॥८७७॥