________________
आहेडपूरे ध्वजारोहणादि उत्सवाः कृत्वा केसरीयाजीतीर्थ आगमनम् । ३४३ आचार्यवर्यागमनेन चाऽत्र,
जातानि कार्याणि सुमङ्गलानि ॥८६२॥ अस्मिश्च माङ्गल्यमहोत्सवेऽत्र,
चतुःसहस्त्री मिलिता जनानाम् । साधर्म्यवात्सल्यविधित्सया ता
मयोजयत् संघ उदारभावम् ॥८६३॥ उदेपुरे धर्मि-धनीश्वराढ्ये,
भव्यान् विबोध्याऽऽत्मवचोऽमृतेन । एवं च कृत्वा जिनशासनस्य,
प्रभावनाकार्यमघौघदारम् ॥८६४॥ आचार्यवर्या उदयादिपुर्याः,
श्रीमार्गशीर्षाऽसितयुग्मतिथ्याम् । विहृत्य सत्केसरियाजितीर्थं,
समागताः शिष्यसमूहसार्धम् ॥८६५॥ (युग्मम्) तीर्थे च तत्केसरियाख्यवित्ते,
आदीश्वराणां परमेश्वराणाम् । महाप्रभावां प्रतिमां निपीय,
अलौकिकानन्दमविन्दतेमे ॥८६६॥ श्रीमार्गशीर्षाऽसितपक्षकस्य,
सवादशीश्रेष्ठतिथौ तदानीम्, विहृत्य तत्तीर्थवरात् सुधैर्याः,
शिष्यैः प्रशिष्यैः सह सूरिसूर्याः ॥८६७॥