________________
३४१
उदयपूरे धर्मबिजविकस्वरक्षमा शासनप्रभावना । संवत्सराणां नवतेश्च पश्चाद्,
अस्मिन् सुवर्षे जन-ताप-कर्षे । महाप्रभावाऽन्वितसूरिराज
श्रीनीतिसूरेरुपदेशतोऽभूत् ॥८५२॥ श्रीमार्गशीर्षाख्यसुमान्यमासे,
सिताह्वपक्षे प्रतिपत्तिथौ च । महैः सहोच्चैर्वरघोटकोऽस्मिन्,
निष्काशितः पौरवरैः सहर्षम् ॥८५३॥ वंशस्थम् - असावलङ्कारयुतैर्हि पञ्चभि
गजैस्तुरङ्गैश्च सुवेषशोभितैः । विचित्रवाद्यैः पदिका-ऽश्ववारणैः,
सुरम्ययानैरभवन्मनोहरः ॥८५४॥ उपजाति: - एतादृशेनोच्चमनोहरेण,
जनौघविस्मापनकारकेण । प्रभावना श्रीजिनशासनस्य,
आसीत् प्रशस्या परमादरेण ॥८५५॥ श्रीमार्गशीर्षस्य सिते सुपक्षे,
शुच्यां तिथौ पञ्चमिताऽङ्कभाजि । सन्मालिकारोपणकार्यमासित्,
सूरीश्वराणां वरदात् कराब्जात् ॥८५६॥