________________
३४० उपजाति:
-
वंशस्थवृत्तम् -
उपजाति:
एवं यथाशक्ति जपोपवासान्, धर्मक्रियायुग्नियमान् यमाँश्च । चतुर्विधाः संघजना विधाय,
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
व्यधुः स्वकर्णौघा वि) निर्जरां ते ॥८४७ ॥
सदश्चयुङ्माससुशुक्लपक्षके,
तिथेर्दशम्याः शुभवासराद् धनी ।
लुनावतोपाह्वककेसरीमलः,
शुभोपधानोद्वहनं ह्यकारयत् ॥८४८॥
तदीयसत्कुङ्कमपत्रिकाः शुभा,
औदार्यवृत्त्या सुधिया तदा मुदा ।
श्वेताम्बर श्रीजिनमूर्तिपूजक
श्रीसंघनाम्ना धनिना विलेखिताः ॥८४९ ॥
तत्रोपधानोद्वहनक्रियायां,
तपस्विनां धर्म्यतपः पराणाम् ।
सेवाभरो वर्ण्यतमः समासीत्,
श्रेयः प्रवृत्तान् सकला भजन्ते ॥८५० ॥
चुतः - ख- नन्दैकमिते सुवर्षे (१९०४), पुरोपधानोद्वहनं बभूव ।
ततः परं तन्नगरे वरेण्ये,
अद्यापि नाऽभूदुपधानकार्यम् ॥८५१॥