________________
चित्तोडतीर्थोद्धार कृते उदयपूरे वर्षावासः ।
उदयवत्युदयादिपुराऽभिधे,
. पुरवरेण्यपुरे भविकै ते । घनघनागमकालमजीगमन्,
पुरजने प्रविलोक्य सुभावनाम् ॥८४२॥ (युग्मम्) उपजातिः - तदीयसद्बोधकरोपदेशाद्,
व्याख्यानकार्यादतिसारयुक्तात् । उदेपुरान्तर्वसतां जनानाम्,
आसीत् स्वधर्मे वरजागृतिश्च ॥८४३॥ व्रतोपवासादिककर्ममुख्याः ,
शुभास्तपस्या नियमाश्च धाः । परास्तथा पर्युषणामहेऽस्मिन्,
आराधना उच्चतराः समासन् ॥८४४॥ सम्यक्त्वसंभूषितसाधुराजा,
जैनाश्च सच्छासनसंघभक्ताः । जैनेतरा अप्यनुजैनधर्म
मासन् प्रवृत्ता मुनिपोपदेशात् ॥८४५॥ वंशस्थवृत्तम् - केचिद् व्यधुः षोडशवासरावधि,
पक्षाहसंख्याऽन्वितमुत्तमं तपः । चैकादशाहःप्रमितं परे जना,
नवाह्निकाऽष्टाहमितं तथेतरे ॥८४६॥