SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३३८ शार्दूलविक्रीडितम् - वन्दित्वा समतीर्थवर्ण्यमिमकं श्रीचित्रकूटाभिधमाचार्या विजयादिनीतिमुनिपास्तीर्थोद्धृतावुद्यताः । कानोडाख्यपुरस्य जैनजनतासद्भाविकैः प्रार्थिता स्तत् प्रत्येव पुरं व्यहार्षुरखिलैः शिष्यैः प्रशिष्यैः सह ॥८३७॥ कानोडाख्यपुरं गता उदययुक्पुर्यास्तदा श्रावकाः, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीमद्-रोशनलालनामविदिता अम्बादिलालाभिधाः । इत्याद्याः पुरवासिजैनजनतास्वग्रेसराः श्रेष्ठिनश्चातुर्मासविधापनाय यमिनां ते पञ्चविंशाधिकाः ||८३८ ॥ उपजाति: ते प्रार्थयन्तात्मगुरुं मुनीशं मुदेपुरं पावयितुं स्वकीयम् । तेषां विदित्वाऽऽग्रहयुक्तयाञ्चां, द्रुतविलम्बितवृत्तम् सूरीश्वराः स्वीकृतवन्त एतुम् ॥८३९॥ विहृत्य कानोऽपुरात्तदानीं, मार्गागतग्रामजनान् सुबोधैः । धर्माभिवृद्ध्यै प्रतिबोधयन्त, उदेपुरं सूरिवरा अगच्छन् ॥८४०॥ जलधि- नन्द-नवैकमिते शुभे (१९९४), नृपतिविक्रमनिर्मितवत्सरे । विजयनीतिमुनीश्वरसूरयो, निजसुशिषश्यसमूहसमावृताः ॥८४१ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy