SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३३७ चित्तोडदुर्ग जिर्णचैत्योद्धारसंकल्पः । अचिन्तयद् भावनया समेतः, प्राचीनतीर्थप्रवरस्य तस्य । श्रीचित्रकूटस्य समुद्धति स, दृष्ट्वाऽस्य तीर्थस्य दशां सुजीर्णाम् ॥८३२॥ (युग्मम्) तदा प्रभृत्येव धनाढ्यधन्यान्, सद्भाग्यशीलान् सुगृहस्थवर्यान् । उद्बोध्य वाचाऽमृतवर्षणाभि स्तीर्थोद्धृतौ प्रेरयति स्म सर्वान् ॥८३३॥ गते कियत्काल इदं हि तीर्थं, प्रभाविसूरीश्वरहस्तपः । अवश्यमुद्धारमवाप्स्यतीत्थ माशास्यते सर्वजनैः सुभावैः ॥८३४॥ एतत्सुतीर्थोद्धरणव्ययेषु, लक्षाधिकानां खलु रूप्यकाणाम् । सम्मेलनाऽऽवश्यकताऽस्ति तत्र, साहाय्यकार्थं क्रियते प्रयत्नः ॥८३५॥ स्रग्धरा - चत्वारिंशत्सहस्त्री खलु समधिगता रूप्यकाणां हिताय, तीर्थोद्धाराय तस्मै निखिलजनमनोह्लाददात्रे सुभव्यान् । अद्याप्युच्चैः प्रयासं मुनिजनसुमताः सूरिराजा यतन्ते, सत्साहाय्याय पूर्णं निजवचनसुधासेचनैर्बोधयित्वा ॥८३६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy