________________
३३६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वंशस्थम् - स्वनिर्मिते श्रीसकलार्हताभिधे,
भुवि प्रसिद्ध वरचैत्यवन्दने । सस्मार सद्वन्द्यतमः पुरातने,
तच्चित्रकूटाऽभिधतीर्थमुत्तमम् ॥८२७॥ (युग्मम्) अन्येऽपि चाऽऽचार्यवराः पुराणाः,
सुकूटरम्यं वरचित्रकूटम् । सर्वाणि तीर्थानि 'व वन्दनीयं,
संमेनिरे विश्रुतधर्मधुर्याः ॥८२८॥ सौभाग्यवद्भिः पुरुषैर्महद्भि
रनेककोटीवररूप्यकाणाम् । व्ययं च कृत्वाऽत्र विनिर्मितानि,
देवालयानि (?) शतशो बभूवुः ॥८२९॥ सदा प्रभातस्मरणीयनाम,
तच्चित्रकूटाख्यपुराणतीर्थम् । प्रणाशकृत्पञ्चमकालदोषाद्,
सुनष्टभावं परिदृश्यते हि ॥८३०॥ (युग्मम्) एतच्च दृष्ट्वा विजयादिनीति
__ श्रीसूरिसूर्यो जिनधर्मधुर्यः । तीर्थोद्धृति प्रत्यनुबद्धचित्तो, ___ रात्रिंदिवं शासनवृद्धिहेतोः ॥८३१॥
१. इवार्थेऽव्ययम् ।