________________
तेरापंथावर्जित पूराख्य पूरं प्रतिबोध्य चैत्योपरि ध्वजारोहणोत्सव कारितः। ३३१ उपजातिः - वैशाखमासस्य सिते सुपक्षे,
श्रीमत्तृतीयातिथितस्तदानीम् । प्रारभ्यत श्रीजिनधर्मवृद्धये, अष्टाहवित्तः सुमहोत्सवोऽत्र ॥८०२॥
(त्रिभिर्विशेषकम्) शार्दूलविक्रीडितम् - वैशाखस्य सिते दले शुभकरे श्रीमत्तृतीयातिथौ,
तस्मिन् श्रीपुरनामके पुरवरे सच्छावकश्रेष्ठिनम् । 'हीरालाल' इतीड्यनामविदितं सुश्रद्धया सेवितं,
सूरिः श्रीविजयादिनीतिमुनिपो भव्यं तदाऽदीक्षयत् ॥८०३॥ उपजातिः - कृत्वाऽभिधानं नवदीक्षितस्य,
उमङ्गपूर्वं विजयान्तरम्यम् । दानादिभाजो विजयस्य शिष्यं,
व्यधाच्च पन्न्यासपदाश्रितस्य ॥८०४॥ वैशाखमासस्य च शुक्लपक्षे,
सौम्याऽष्टमीवासरके वरेण्ये । सद्धस्तियुक्तो वरघोटकश्च,
निष्काषि( सि)तः पौरवरैः शुभव्यः ॥८०५॥ तन्मासशुक्ले नवमीतिथौ वै,
तथा च शान्त्यै ग्रहपूजनादि ध्वजासमारोहकृते ह्यकारि,...
स्नात्राऽभिषेको विधिपूर्व उच्चैः ॥८०६॥