SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३३० उपजाति: - आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् पुरे च तस्मिन् पुरनामधेये, तेराख्यमार्गाश्रितसाधुसङ्गात् । सदोसवालाख्यवणिग्वराणां, सार्धं शतं श्रावकसद्गृहाणि ॥७९७ ॥ आसँश्च तेराख्यमताश्रितानि, तेषां चतुः संख्यमिताऽब्दकेभ्यः । आसन्नपञ्चाशगृहाणि तत्र, जिनेशबिम्बाऽर्चनतत्पराणि ॥ ७९८ ॥ ( युग्मम् ) तस्मिन् पुराख्ये पुरसंघभूषणे, जिनेशदेवायतनानि पञ्च । तेषां हि त्रीणि ( त्रीण्येव तेषां ) शिखराश्रितानि, भव्यानि भान्तीह पुरातनानि ॥७९९ ॥ तेषु त्रिषु प्रोक्तजिनालयेषु, नाऽऽसीद् ध्वजादण्ड इतीष्टधर्मा । तत्रत्यसंघस्य विचिन्त्य शक्तिं, ध्वजाप्ररोहव्ययकार्यहीनाम् ॥८०० ॥ शार्दूलविक्रीडितम् - तस्माच्छ्रीजिनशासनस्य सुहितं ध्यायन् मुनीनां पतिः, श्रीमत्संघविराजिराजनगरे श्रीराधनादौ पुरे । प्राहैषीत् सुदलानि जैनधनिषु श्रीधर्मवृद्ध्यै कृती, प्राप्ते कारयितुं च चित्तनिवहे प्रोच्चैर्ध्वजारोपणम् ॥८०१ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy