________________
मेदपाडदेशे आघाटपुर्यादि गमनम् ।
उपजाति:
उपजाति:
-
श्रीसूरिराजा: समचिन्तयंस्ते, मेवाडभूस्वीयविहारकार्यात् । श्रीशासनस्याऽतिहितप्रकर्षं,
मालिनी
उदयपुरपुरात् सत्फाल्गुने शुक्लपक्षे,
प्रतिपदि च विहृत्याऽगुस्त आघाटपुर्याम् । विहरणमिति कृत्वा गूरलीग्रामकादौ,
-
विहारमत्रैव ततः समैच्छन् ॥७७२॥
निखिलजनमनांसि(मनोऽब्जं ) रञ्जयन्तो व्यहार्षुः ॥७७३॥
फत्तेहनाम्नि (हसंज्ञे) नगरे प्रगत्य,
श्रीसेनवाडाख्यपुरं (रं हि ) तस्मात् ।
श्रीफाल्गुनाख्ये शुभकारिमासे,
शुक्लाष्टमी श्रेष्ठतिथौ मुनीशः ॥७७४॥
श्रीमत्करेडाऽभिधपुण्यतीर्थे,
समागमल्लोकसमूहमान्यः ।
तस्मिन् करेडाभिधपार्श्वनाथ
प्रभोः सुमूर्ति समवन्दतोच्चैः ॥ ७७५ ॥ ( युग्मम् )
विहृत्य तस्मात् खिमलीतिनाम
ग्रामं गताः श्रीमुनिराजराजाः ।
३२५
नीस्तां ततो रास्मिमितश्च पानां,
पुरं ततोऽनुव्यहरन् सशिष्याः ॥७७६ ॥